पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चदशः पटलः । भोगिनी नाम विद्येयं त्रिषु लोकेषु विश्रुता । अनया विद्यया देवि त्रयं स1म्मानितं सदा ॥३॥ इति दक्षिणामूर्तिसहितायां दक्षिणाम्नायदेवता- निरूपणं नाम चतुर्दशः पटलः ॥ १४ ॥ अथ पञ्चदशः पटलः ईश्वर उवाच- देवि पश्चिमवक्रेण मयाऽद्या2पि प्रजप्यते । विद्याचतुष्टयं साक्षादमृतानन्दविग्रहम् ॥ १ ॥ महासिंहासनगतां तत्र सञ्जीवनी शृणु। शक्तिवीजं समुच्चार्य शिवचन्द्रौ समालिखेत् ॥२॥ अनुस्वारविसर्गाभ्यां यन्त्रितौ क्रमतः प्रिये । सञ्जीवनि च जूंजीवं प्राणग्रन्थिस्थमालिखेत् ॥३॥ कुरु3शब्दोत्तरं सः स्यात् बह्निजायान्वितो मनुः । त्रिशिरास्तुं ऋषिः शुक्रो गायत्रं छन्द उच्यते ॥४॥ (१) 'त्रयो देवाः सुमानिता' इति पाठान्तरम् । ललिता त्रिपुरा कामेश्वरीरक्तनेत्राख्यं पूर्वोक्तं अनया संमानित पूजितं स्यात् । तेन तदन्यतमध्यानेन पूजादिकमस्या इत्याशयः । (२) 'मया विद्या प्रजायते' इति पाठान्तरम् । (३) 'कुरुशब्द भृगुः सर्गो' इति पाठान्तरम् । ५