पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणमूर्तिसंहिता। 4. सञ्जीवनी देवता स्याच्छक्तिरन्त्यादिवीजकम् । चतुर्थन्त्रितये पञ्चपञ्चकं चतुरेव हि ॥ ५ ॥ त्रिकं च क्रमतो देवि षडङ्गानि प्रविन्यसेत् । भूर्जे क्षीरेण विलिखेत् षड्दलेन तुतं सुधीः ॥ ६॥ कर्पूराभां स्फुरन्मुक्ताभूषणैर्भूषितां पराम् । ज्ञानमुद्रामक्षमालां दधतीं चिन्तयेत्पराम् ॥ ७ ॥ परं ध्यात्वा वायुमध्ये पूजयेदुपचारकैः । आदावङ्गानि सम्पूज्य षट्कोणेषु च पूजयेत् ॥८॥ सञ्जीवनीं तथा वृद्धिपूर्वां सञ्जीवनीं ततः । अहङ्कारमयीं तद्वत्सत्त्वसञ्जीवनीं प्रिये ॥ ९ ॥ रजःसञ्जीवनीं चैव तमःसञ्जीवनीं क्रमात् । शक्तिवीजेन देवेशि नमोऽन्तेन प्रपूजयेत् ॥१०॥ वर्णलक्षं जपन्मन्त्रं पुरश्चरणहेतवे । तद्दशांशेन जुहुयाद् दूर्वास्त्रिमधुसंयुताः ॥ ११ ॥ इति साधारणी पूजा विशेषं शृणु पार्वति “इ1ति पूजां पुरा कृत्वा पश्चादावरणं शृणु ॥ १२ ॥ प्राणापानौ तथा व्यान उदानश्च समानकः । अग्रकोणे ततं चैव विततं च तथा धनम् ॥ १३ ॥ (१) 'एवं' इति पाठान्तरम् ।