पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः पटलः। सुचिरं चेश्वरीशब्दे द्वितीये कोणके यजेत् । पृथिव्यप्तेज आख्यातं वाय्वाकाशौ तृतीयके ॥ १४ ॥ शब्दस्पर्शं च रूपं च रसगन्धौ चतुर्थके । इच्छाज्ञाने किया चैव परा माया च पञ्चमे ॥ १५ ॥ भूर्भुवः स्वस्तपः सत्यं षष्ठकोणे क्रमाद्यजेत् । सर्वस्यान्ते व1देद्देवि द्विठः सञ्जीवनीपदम् ॥ १६ ॥ क्रियासजीवनीपूजा मृत्युं जयति निश्चयात् । इति दक्षिणामूर्तिसंहितायां सञ्जीवनीकथनं नाम पञ्चदशः पटलः ॥ १५ ॥ अथ षोडशः पटलः। ईश्वर उवाच- अथ वक्ष्ये मेहशानि मृत्युञ्जयपरात्परम् । वदद्वन्द्वं वादिनाति वाह्मध्ये निक्षिपेत्प्रिये ॥ १॥ हस्राढ्यं वाग्भवं देवि क्लिन्ने क्लेदिनि चालिखेत् । महाक्षोभं कुरु द्वन्द्वं शिव2स्त्वं च कलानलान् ॥२॥ वामाक्षिबिन्दुनादाक्तां तारवीजं ततो वदेत् । मोक्षं कुरु युगं हंसः शक्रस्वरविसर्गवान् ॥ ३ ॥ (१) “पठेहेवि' इति पाठान्तरम् । (२)शिवो इकारः त्वं इत्यनेन शक्तिः सकार इत्यर्थः ।