पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। इयं सञ्जीवनी देवी ऋषि1रस्यासितः प्रिये । गायत्रं छन्द आख्यातं देवतेयं तु भैरवी ॥ ४ ॥ आदिकूटं भवेद्बीजं मध्यकूटं तु कीलकम् । अन्त्यकूटं भवेच्छक्तिः साक्षान्मृत्युविनाशिनी ॥५॥ नवशक्रस्त्वष्टवर्णान् न्यसेद्वै हृच्छिरःशिखा । क्रमेणानेन चोच्चार्य पुनर्वारत्रयं लिखेत् ॥ ६ ॥ अथ त्रिकोणमालिख्य ततः षट्कोणमालिखेत् । वसुपत्रे कामवीजं षट्कोणे जालपीठकम् ॥ ७ ॥ उड्डीयाणं त्रिकोणे तु विद्याभागत्रयेण तु । ध्यात्वा चावाहयेद्देवीं कदम्बवनमध्यगाम् ॥ ८॥ पुस्तकं वामहस्तेन दक्षिणे चाक्षमालिकाम् । बिभ्रतीं2 कुन्दधवलां कुमारीं चिन्तयेत्पराम् ॥ ९॥ सर्वोपचारैः सम्पूज्य षडङ्गावरणान्यजेत् । वसन्तं पनजं चन्द्रं विद्याभागत्रयेण तु ॥ १० ॥ त्रिकोणं पूजयेन्मन्त्री प्रादक्षिण्येन चाग्रतः। ब्रह्मविष्ण्वीशब्दान्ते यजेत्संजीवनीं तु ताम् ॥ ११ ॥ इति संजीवनीषट्कं त्रिकोणे च प्रपूजयेत् । धर्मार्थकाममोक्षान्ते जयन्तीविजयान्तिके ॥ १२ ॥ (१) 'ऋषिः स्याद् सितः प्रिये' इति पाठान्तरम् । (२) दधतीं' इति पाठान्तरम् । (३) द्वादशश्लोकोत्तरार्द्धं त्रयोदशश्लोकपूर्वार्द्धांच 'ख' पु० नास्ति ।