पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः पटलः। सञ्जीवनीपदं ब्रूयात् षट्कोणेषु च पूजयेत् । अष्टकान्ते तु मातॄणां कुर्यात्संजीवनीपदम् ॥ १३ ॥ अनेन विधिना विद्वान् पूजयेच्चतुरस्रके । तारबीजं शक्तिबीजं श्रीबीजं चादिमं कुरु ॥ १४ ॥ इति जप्त्वा महेशानि पुरुषार्थप्रदा भवेत् । पुनश्वाराधयेदेवीं गन्धपुष्पादिभिः प्रिये ॥ १५ ॥ पुरश्चरणचारीति पूर्वसञ्जीवनीव हि । इति दक्षिणामूर्तिसंहितायां सञ्जीवनीयजनविधिः षोडशः पटलः ॥ १६ ॥ अथ सप्तदशः पटलः। ईश्वर उवाच- परा क्लिन्नेवाग्भवं च करोमात्मकमक्षरम् । ततो नित्यमदप्रान्ते द्रबेमायां च संलिखेत् ॥ १ ॥ वज्रेशी रविवर्णेयं ऋषिर्ब्रह्मा च तन्मनोः । छन्दो विराट् च ब्रजेशी देवता परिकीर्तिता ॥ २ ॥