पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः पटलः। ३९ मातरस्तत्र सम्पूज्या भूविम्बे लोकपालकाः । पुनर्देवीं समभ्यर्च्य वर्णलक्षं जपेत्सुधीः ॥ १३ ॥ तद्दशांशेन जुहुयादम्बुजै रक्तसन्निभैः । इति दक्षिणामूर्तिसंहितायां चक्रप्रस्ताविनीपूजा- विधिर्नाम सप्तदशः पटलः ॥ १७ ॥ अथाष्टादशः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि भैरवीं त्रिपुरां पराम् । हसाचं वाग्भवं चाद्यं शिवचन्द्रकला परा ॥१॥ त्रिपुरेशीशक्तिबीजं शिवाद्यं कुरु सुब्रते । पञ्चमुण्डसमासीनां मुण्डमालाविभूषिताम् ॥ २ ॥ आताम्रार्कप्रभाभासां रक्तभूषणभूषिताम् । पाशाङ्कुशाभयवरां साक्षाद्भुवनमातृकाम् ॥ ३ ॥ सर्वमस्या विधानं तु त्रिपुरेशीव विद्धि हि । अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा ॥ ४ ॥ इति दक्षिणामूर्तिसंहितायां त्रिपुरेशीभैरवीविद्या विधिरष्टादशः पटलः ॥ १८ ॥