पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

४० दक्षिणामूर्तिसंहिता। अथैकोनविंशः पटलः। ईश्वर उवाच- एतच्चतुष्टयं देवि पश्चिमाम्नायसागरे । वाग्भवं शक्तिबीजं च श्रीबीजं हसफानलम् ॥ १॥ रुद्रस्वरेण सम्भेद्य1 बिन्दुनान्दाङ्कित्तौ हसौ । एतत्सम्पुटितां विद्यां द्वात्रिंशां तु समालिखेत् ॥२॥ नभो भगवति प्रान्ते चतुर्थं प्रणवं लिखेत् । ईश्वरा2ख्यं क्रमेणैव कुब्जिकायै पदं ततः॥ ३ ॥ क्षामन्ते तु परां पश्चाद् हुमात्मकमतः परम् । अधोरे द्वितयं पश्चादघोरमुखि संलिखेत् ॥ ४ ॥ छिं छिं किणियुगं विच्चे कुब्जिका शाम्भवी परा । पश्चिमाम्नायदेवेशी भोगमोक्षप्रदायिनी ॥ ५॥ महासिंहासनाख्यं तु कथितं तच्चतुष्टयम् । अनया विद्यया गौरी सम्यक् संमानिता सदा ॥६॥ इत्येष पश्चिमाम्नायमहासिंहासनेश्वरी । इति दक्षिणामूर्तिसंहितायां पश्चिमाम्नायमहासिंहासन- विद्याविधिर्नामैकोनविंशः पटलः॥१९॥ (१) 'संयोज्य इति पाठान्तरम् । (२) 'हस्फ्रें' अस्यैव ईश्वराख्यसंज्ञ्रें।