पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशः पटलः। ४१ अथ विंशः पटलः। ईश्वर उवाच- उत्तरास्येन देवेशि मया विद्या प्रजप्यते । महासिंहासनगता भैरवी डामरेश्वरी ॥ १ ॥ उत्तरादीति विद्येशी भोगमोक्षफलप्रदा । पूर्वोक्तभैरवीदेव्याः कामकूटे शिवं हरेत् ॥ २ ॥ परायुक्तं मध्यकूटं महासिंहासनेश्वरी । वन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ॥ ३ ॥ स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् । त्रिनेत्रां रक्तनयनां पीनोन्नतघनस्तनीम् ॥ ४ ॥ पुस्तकञ्चाक्षमालां च वरदं चाभयं क्रमात । दधतीं संस्मरेन्नित्यं उत्तराम्नायमानिताम् ॥ ५॥ मदनान्तकरेफात्ममहाचण्डसमुल्लिखेत् । योगेश्वरि नवार्णा तु विद्येयं कालिका मता ॥ ६ ॥ नवाक्षरी महेशानि स्मरेदुत्तरनायिकाम् । अनया विद्यया देवि सम्यक् सम्मानितो भवेत् ॥७॥ न्यासपूजादिकं सर्वं त्रिपुरेशीव 1सुन्दरि । महासम्पत्प्रदा देवी महाभयाविनाशिनी ॥ ८॥ इति दक्षिणामूर्तिसंहितायां महासिंहासनेश्वरीनाम भैवरवीविधिर्विंशतितमः पटलः ॥ २० ॥ (१) विद्धि हि' इति पाठान्तरम् ।