पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथैकविंशः पटलः। ईश्वर उवाच- चतुःसिंहासनैश्चाद्या भैरवी परमेश्वरी। वाग्भवं सर्वसाम्राज्यदायिन्या मध्यमं लिखेत् ॥ १॥ दक्षिणाम्नायरुद्रार्णसर्वान्त्यं च समालिखेत् । चैतन्यभैरवीं ध्यायेत्पाशाङ्कुशकपालिनीम् ॥ २ ॥ रक्तां मुण्डस्रजं पञ्चप्रेतसिंहासनस्थिताम् । कामेश्वरीं च सम्पूज्य पूर्वसिंहासनाश्रयाम् ॥ ३ ॥ इति दक्षिणामूर्तिसंहितायां चैतन्यमैरवीविद्याविधि- र्नाम एकविंशतितमः पटलः ॥ २१ ॥ अथ द्वाविंशः पटलः। ईश्वर उवाच- डरक्ष्मा मादेनं जीवं शिवं चैव त्रिधा लिखेत् । अर्कतु2र्येन्द्रकूटौनि क्रमात्तन्मण्डितं कुरु ॥ १ ॥ (१) डकारः, रेफः, क्ष्मा=लकारः, मादनं = ककारः, जीवः = सकारः, शिवो=हकारः । (२) अर्को द्वादशः= ऐं, तुर्यश्चतुर्थः=ई, इन्द्रचतुर्दशः= औः, एतैः स्वरैः क्रमेणासंयुक्ताः पूर्वोक्ता वर्णा एवं प्रकृतविद्यामनुः । (३) 'कलया' इति पाठान्तरम् ।