पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रयोविंशः पटलः। ४५ बिन्दुनादात्मकं चायं युग्ममन्त्यं विसर्गवान् । ध्यानं त्रिभुवनेश्वर्या भैरव्या एव सुन्दरि ॥ २ ॥ ऋष्यादि त्रिपुरेशवि पूजा चा1ऽत्र निगद्यते । त्रिकोणे क्रमतो देवि रतिशान्तिमनाभवाः ॥ ३ ॥ डाकिनीं शाकिनीं चैव राकिनीं लाकिनीं तथा । काकिनीं हाकिनीं चैव षट्कोणेषु यजेत्क्रमात् ॥४॥ अष्टपत्रेषु देवेशि तथाऽनङ्गादिपूजनम् । मातरो भैरवैः सार्द्धं तथा पीठादिभैरवाः ॥ ५॥ इन्द्रादयश्च सम्पूज्या दक्षिणाम्नायमानिताः। इति दक्षिणामूर्तिसहितायां षट्कूटीभैरवीविधि- र्नाम द्वाविंशः पटलः ॥ २२ ॥ अथ त्रयोविंशः पटलः । षट्कूटाभैरवीवर्णान् संहारक्रम3तो लिखेत् । तथा संयोज्य नित्येयं भैरवी भयहारिणी ॥ १ ॥ (१) 'चाऽपि' इति पाठान्तरम् । (२) षड्भिरक्षरैः कूटमस्या इति षट्कूटेत्यर्थः । तथा च त्रीण्ये- वाऽत्र कूटानि, न तु षट्सख्याकानि कूटान्यस्यामिति शङ्कनीयम् । (३) पूर्वोक्तषद्कूटाभैरवीमन्त्रवर्णा एव संहारक्रमेण विन्य-