पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

. दक्षिणामूर्तिसंहिता। षट्कूटामैरवीवच्च विधानं पूजनादिकम् । पश्चिमाम्नायसामर्थ्यगर्वितेयं सुरेश्वरी ॥ २ ॥ अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा । इति दक्षिणामूर्तिसंहितायां नित्याभैरवीविधि- र्नाम त्रयोविंशः पटलः ॥ २३ ॥ अथ चतुर्विश पटलः । ईश्वर उवाच-- डामरेश्वरभैरव्या कादिं हित्वा सुरेश्वरि । यिन्दुनादकलाक्रान्तशक्तिबीजं समुच्चरेत् ॥ १ ॥ भयविध्वंसिनी नाम भैरवी परिकीर्तिता । उत्तराम्नायगम्भीरां डामरेशी च पूजयेत् ॥ २ ॥ सहस्रान्तफरेफात्मबीजं संलिख्य मन्त्रवित् । भयविध्वंसिनी नाम भैरव्या द्वयमालिखेत् ॥ ३ ॥ मध्यमं चान्तिमं चैव विद्येयं भोगमोक्षदा । अघोरभैरवी देवी श्यामा मुण्डस्रजाकुला ॥ ४ ॥ स्ताश्चेत् नित्याभैरपीविद्या भवति । षट्कूटाभैरव्यां डरलकसहेति वर्ण कमः अस्यां तु हसकलरडेति क्रम इत्यर्थः। एवं च मन्त्रमर्णेष्वेव संहा- रक्रमः, न तु कूटान्तिमस्वरयोजनेऽपीति बोध्यम् ।