पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः पटलः । दक्षिणोत्तरया प्रौढा पञ्चमुण्डाधिवासिनी । पुस्तकं चाक्षमालां च पाशश्चैवाङ्कुशन्तथा ॥ ५॥ खट्वाङ्गं डमरुं चैव कपालं शूलमेव च । दधर्ती परमेशानि षट्कूटामिव पूजयेत् ॥ ६ ॥ इति दक्षिणामूर्तिसंहितायां भयविध्वंसिनीअघोर- भैरवीविधिश्चतुर्विंशः पटलः ॥ २४ ॥ अथ पञ्चविंशः पटलः। ईश्वर उवाच- चतुः सिंहासनसमां श्रीसम्पत्भैरवीं यजेत् । भयविध्वंसिनी नाम भैरवी पूर्वमालिखेत् ॥१॥ आये तृतीये देवेशि वह्निबीजसमासना । इयं सम्पत्प्रदा नाम त्रिषु लोकेषु दुर्लभा ॥ २ ॥ चतुःषष्टिमहाकोटियोगिनीशासनक्षमा । आताम्रार्कसहस्राभा त्रिनेत्रा चन्द्रसन्मुखी ॥ ३ ।। चन्द्रखण्डस्फुरद्रलमुकुटा क्षाममध्यमा । नितम्बिनी स्फुरद्रत्नरशना चन्द्रभूषणा ॥ ४ ॥ उन्मत्तयौवनप्रौढा पीनोन्नतघनस्तनी । अमृतङ्काममुण्डनस्र̽ज्मण्डिताङ्गी सुशोभनाम् ॥ ५ ॥