पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसहिता। पुस्तकं चाभयं वामे दक्षिणे त्वक्षमालिकाम् । वरं च दधती पूज्या त्रिपुरेशीव नान्यथा ॥ ६ ॥ इति दक्षिणामूर्तिसंहितायां सम्यत्प्रदाभैरवीविद्याविधिः पञ्चविंशः पटलः ॥ २५ ॥ अथ षड्विंशः पटलः। ईश्वर उवाच- अथासावेकवक्रेण मयाद्यापि प्रजप्यते । विद्यानां पञ्चकं देवि त्रिषु लोकेषु दुर्लभम् ॥ १ ॥ वाग्भवं शिवसंयुक्तं वाग्भवे मध्यमे शृणु । हकलान्ते महेशानि शिववीजत्रयं लिखेत् ॥ २ ॥ रेफेवामाक्षिबिन्द्विन्दुघटितं तु तृतीयकम्। हसानुग्रहसर्गाढ्यं विधैषा सुन्दरी प्रिये ॥ ३ ॥ अहसान्यो जपेन्मन्त्री रवितुर्य्यमनुस्वरैः । आ1धं सैंसकुमायोन्धिबिन्दुनादकलत्मिके ॥ ४ ॥ द्वयं द्वितीया देवेशि सुन्दरी परिकीर्तिता । केवलं वाग्भवं देवि वाग्भवे मध्यमे शृणु ॥ ५॥ (१) आचं वाग्भवस्थानीयम् । सैंसकुलकाराढ्यं मायाढ्यं, इन्धि. का उकारस्तद्युक्त तृतीयं विन्दुनादकलात्मक द्वयमिति ।