पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

षड्विंशः पटलः। हसएहसहस्रांश्च वाग्भवेन च योजयेत् । हत्रयं कलह्रल्लेखाः सन्ति कूटेश्वरि प्रिये ॥ ६ ॥ चतुष्कं शिवबीजानां रेफानुग्रहसेन्दुमत् । इयं तृतीया देवेशि सुन्दरी चतुरक्षरी ॥ ७ ॥ कलान्ते शिवयुग्मं तु तथा बीजत्रयं शिवम् । परया पिण्डितं कुर्यात्कूटमेतत्रिधा प्रिये1 ॥८॥ वाग्भवे कामराजे च शक्तिबीजे च संलिखेत् । चतुर्थी सुन्दरी ख्याता भोगमोक्ष2प्रदायिनी ॥ ९ ॥ जीवः शिवयुगं जीवः क्ष्माक्षकारशिवेन्दुमा3न् । एतदाद्यं च मध्यं च हंसयुक् क्ष्माक्ष4हेतुमत् ॥ १० ॥ अन्त्यं तु हसलक्षेन्दुहेत्वाका5शविभूषितम् । त्रिपुरेशीमनोरेषा पञ्चमी सुन्दरी भवेत् ॥ ११ ॥ सम्पत्प्रदाभैरवीवत् ध्यायेत्साधकसत्तमः । ऋष्यादिपूजा विज्ञेया त्रिपुरेशीव नाऽन्यथा ॥ १२ ॥ इति दक्षिणामूर्तिसंहितायां पञ्चसुन्दरीविवरणं नाम षड्विंशः पटलः ॥ २६ ॥ (१) 'लिखेत्' इति पाठान्तरम् । (२) फलप्रदा' इति पाठान्तरम् । (३) 'युक् इति पाठान्तरम् । (४) 'हंसौश्माक्षेन्दुमन्मथः' इति पाठान्तरम् । (५) हसाकाशस्तथान्तिमम्' इति पाठान्तरम् ।