पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्सिसंहिता । अथ सप्तविंशः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि विद्यां कल्पलतां प्रिये । यासां विज्ञानमात्रेण पलायन्ते महापदः ॥ १ ॥ श्रीविद्या पारिजातेशी षञ्चकामेश्वरी तथा । पञ्चवाणेश्वरी देवी कुमारी पञ्च कीर्तिताः ॥ २॥ सम्पत्प्रदाया भैरव्या वाग्भवं वीजमालिखेत् । तारेण परया देवि सम्पुटीकृत्य मन्त्रवित् ॥ ३ ॥ सरस्वत्यै हृदन्तोयं रुद्रान्तमनुरीरितः । दक्षिणामूर्तिसञ्जप्यो गायत्रं छन्द उच्यते ॥ ४ ॥ पारिजातेश्वरी राज्ञी देवता परिकीर्तता । तृतीयं च द्वितीयं च बीजशक्तिश्च तारकः ॥ ५ ॥ कलिकं परमेशानि महासारस्वतप्रदा । षड्दीर्धस्वरसम्भिन्नबीजेनाङ्गानि विन्य1सेत् ॥६॥ ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नेत्रश्रोत्रपुटे कुरु । नासारन्ध्रमयं जिह्वालिङ्गजानूरु बिन्यसेत् ॥ ७ ॥ वर्णान् विन्यस्य देवेशी ध्यायेत्सारस्वतप्रदाम् । हंसारूढां लसन्मुक्ताधवलां शुभ्रवाससम् ॥ ८ ॥ (१) 'कल्पयेत्' इति पाठान्तरम् ।