पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तविंशः पटलः। शुचिस्मितां चन्द्रमौलि वज्रमुक्ताविभूषिताम् । विद्यां वीणां सुधाकुम्भं अक्षमालां च बिभ्रतीम् ॥९॥ एवं ध्यात्वा जपेन्मत्रं रविलक्षं समाहितः। सहस्रदशकं जुहुयात्सितपद्मै- प्रसन्नधीः ॥ 10 अथवा देवदेवेशि जुहुयान्नागचम्पकम् । मातृकां च लिखेद्यन्त्रं पठिं तद्वत्प्रपूजयेत् ॥ ११ ॥ तत्र वाणीं समावाह्य पूजयेदुपचारकैः । आदावङ्गानि सम्पूज्य परिवारान्समर्चयेत् ॥ १२ ॥ पार्श्वयोर्देवताया1स्तु संस्कृतान् प्राकृतान् यजेत् । प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरीति च १३ सुमतिः स्वस्तिरित्येता वसुपत्रे प्रपूजयेत् । मातरस्तु दलाग्रे तु सम्पूज्याः परमेश्वरि ॥ १४ ॥ इन्द्रादयस्तु भूबिम्बे पुनर्देवीं समर्चयेत् । पारिजातेश्वरी विद्या दुर्लभा भुवनत्रये ॥ १५ ॥ इति दक्षिणामूर्तिसंहितायां पारिजातेश्वरीवाणी- विद्याविधिः सप्तविंशः पटलः॥ २७ ॥ (१)'चाय' इति पाठान्तरम् ।