पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

you दक्षिणामूर्तिसंहिता। अथाष्टाविंशः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि पञ्चवाणोश्वरी शिवाम् । त्रिपुरेशीतन्त्रमध्ये वाणाः प्रोक्ता महेश्वरि ॥१॥ तैरेव पञ्चभिर्बाणैर्विद्या पञ्चाक्षरी भवेत् । ऋषिरस्यास्ति मदनो गायत्री छन्द उच्यते ॥ २ ॥ कामेश्वरी च वीजादि देवता चेयमीश्वरी । व्यस्तैः समस्तैरङ्गानि पञ्चकामैरथार्चयेत् ॥ ३ ॥ पूर्वोक्तं पञ्चवाणानां न्यासं कुर्य्याद्विचक्षणः । ' पञ्चकामांश्च विन्यस्य पूर्ववत्परमेश्वरि ॥ ४ ॥ उद्यद्दिवाकराभासां नानालङ्कारभूषिताम् । वन्धूककुसुमाकाररक्तवस्त्राङ्गरागिणीम् ॥ ५ ॥ इक्षुकोदण्डपुष्पेषुविराजितभुजद्वयाम् । एवं ध्यात्वा वर्णलक्षं जपेन्मन्त्रं समाहितः ॥ ६ ॥ तदशांशेन जुहुयात् यन्धूककुसुमैः पराम् । कामेश्वरीं च सम्पूज्य विशेषं वाणपूजन1म् ॥ ७ ॥ त्रिपुरेशीव सम्पूज्य मोहयेज्जगतीमिमाम् ॥ इति दक्षिणामूर्तिसंहितायां पञ्चवाणेशीयजनविधि- र्नामाष्टाविंशः पटलः ॥ २८ ॥ (१) 'पूजयेत्' इति पाठान्तरम् ।