पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनविंशः पटलः । अथैकोनविंशः पटलः। ईश्वर उवाच- अथ वक्ष्ये पञ्चकामनायिकां विश्वमातरम् । पूर्वोक्तपञ्चकामैस्तु पञ्चकामेश्वरी भवेत् ॥ १ ॥ ऋषिः संमोहनो नाम गायत्रं छन्द उच्यते । देवतेयं का1मचाद्यं बीजशक्तिस्तु कीलकम् ॥ २ ॥ अन्यत्स्वयं न्यसेन्मन्त्री व्यस्तैश्चैव समस्तकैः । अङ्गानि पूर्ववत्कामबाणान्न्यस्य स्वयं यजेत् ॥ ३ ॥ रक्ता रक्तदुकूलाङ्गलेपनां रक्तभूषिताम् । पाशाङ्कुशधनुर्बाणान्पुस्तकं चाक्षमालिकाम् ॥ ४॥ वराभीती च दधती त्रैलोक्यवशकारिणी । अन्यत्सर्वं पूजनादि पञ्चवाणेश्वरीव वै ॥ ५ ॥ पञ्चकामैः परिवृता विशेषोऽयं निगद्यते ॥ ... इति दक्षिणामूर्तिसंहितायां पञ्चकामेश्वरीयजनवि- धधिरेकोनत्रिंशः पटलः ॥ २९ ॥ (१) कामः क्लीं बीजं, आद्यं ह्रींशक्तिः, अन्यत् ऐंकीलकमित्यर्थः।