पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथ त्रिंशः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि कुमारी विश्बमातरम् । कामेश्वरी भगवतीं त्रैलोक्याकर्षणक्षमाम् ॥ १॥ वाग्भवं त्रिपुरेशान्या हित्वा तत्सङ्क्षिपेत्सुधीः । कामशक्तिद्ध1यान्ते तु विद्येयं त्र्यक्षरी भवेत् ॥ २ ॥ त्रिपुरेश्यन्तरा विद्या वीजशक्तिक्रमेण तु । आद्यन्ते कीलकं मध्ये महावश्यकरी भवेत् ॥ ३॥ द्विरावृत्या षडङ्गानि पञ्चबाणान्प्रविन्यसेत् । पञ्चकामांश्च विन्यस्य मूलेन व्यापकं न्यसेत् ॥ ४ ॥ कामेश्वरीमहायन्त्रमध्ये देवीं प्रपूजयेत् । विशेषं शृणु तत्रैव बाणस्थानेषु पार्वति ॥ ५ ॥ पञ्चवाणान्प्रपूज्यैव रत्यादित्रितयं यजेत् । ततोऽनङ्गाद्यष्टकं च स्याद्भैरवसमा2तरम् ॥ ६ ॥ अष्टपन्नेषु चाग्रेषु यजेत्पीठाष्टकं प्रिये । इन्द्रादयश्च सम्पूज्या मध्ये देवीं समर्चयेत् ॥ ७ ॥ पुरश्चरणकृत्यं तु त्रिपुरेशवि सुन्दरि । एनां स्मरन्महेशानि मोहयेज्जगतीमिमाम् ॥ ८ ॥ (१) 'द्वयोर्मध्ये इति पाठान्तरम् । (२) र ति पाठान्तरम् ।