पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

उद्यत्सूर्यसहस्राभां माणिक्यवरभूषणाम् । स्फुरद्रत्नविह्वलास्यां नानालङ्कारभूषिताम् ॥ ९ ॥ इसकोदण्डवाणानां पुस्तकं चाक्षमालिकाम् । दधतीं चिंतयेन्नित्यां सर्वराजवशङ्करीम् ॥ १० ॥ इति दक्षिणामूर्तिसंहितायां कल्पलताविद्यायजन- विधिस्त्रिंशः पटलः ॥ ३० ॥ अथैकत्रिंशः पटलः। देव्युवाच- पञ्च पञ्च महाविद्या सूचिता न प्रकाशिता । श्रोतुमिच्छामि देवेश कृपां कुरु ममोपरि ॥१॥ ईश्वर उवाच- सिद्धविद्यां प्रवक्ष्यामि स्मरणेनापि सिद्धिदाम् । कामदामर्थदां नित्यां सर्वैश्वयंप्रदां प्रिये ॥२॥ शिवोऽग्नि2वामनयनबिन्दुनादकलात्मकम् । (१) 'अधमेनापि' इति पाठान्तरम् । (1) शिवो ड कारः अग्निः रः वामनयनं ई बिन्दुनादकलात्मकं ही इत्यर्थः।