पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकत्रिंशः पटलः। भूबिम्बम्परमेशानि तारं मध्ये विनिक्षिपेत् ॥ १२ ॥ कोणत्रये त्रिवीजानि प्रादक्षिण्येन योजयेत् । अग्रमारभ्य पूर्वादिकलापत्रे शृणु प्रिये ॥ १३ ॥ अवशिष्टाः कलाश्चैव पूर्वादिक्रमतो लिखेत् । अष्टपत्रस्य पत्रेषु लिखेदीर्घस्वरान्प्रिये ॥ १४ ॥ एतत्पठिं समभ्यर्च्य प्रणमेच्च तथा 1बुधः । तत्र वश्यप्रदां देवीं मुद्राः साधारणा यजेत् ॥ १५ ॥ गन्धपुष्पादिभिः सम्यगभ्यर्च्य परितोषयेत् । अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ॥ १६ ॥ ध्यात्वा देवीं सिद्धविद्यां महाक्षीरान्तरेऽम्बु2धौ । रत्नद्वीपे लसत्स्वर्णप्राकाराभरणोज्वले ॥ १७ ॥ कल्पद्रुमविशोभाढ्ये सिंहासनसमन्विते । उद्यत्सूर्य्यसमा3भासं विचित्रवसनोज्वलाम् ॥ १८ ॥ चन्द्रवीडालसद्दामनिरतां रत्नभूषिताम् । सुवर्णकलशाकारस्तनभारोन्नतां पराम् ॥ १९ ॥ रुद्रताण्डवसानन्दाद्विभुजां परमेश्वरीम् । वरदाभयशोभाढ्यामन्नदानरतां सदा ॥ २० ॥ अथवा दक्षिणे दर्वीं दीर्घां ध्यायत्सुवर्णजाम् । (१)"प्रिये' इति पाठान्तरम् । (२) 'बुध इति पाठान्तरम् । (३) 'सहस्राभा इति पाठान्तरम् ।