पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः॥ दक्षिणामूर्तिसंहिताया भूमिका । जगद्वन्धपदाम्भोजान् श्रीविद्यादेशिकोत्तमान् । श्रीमद्भास्कररायाख्यान् भारतीदीक्षितान्नुमः ॥१॥

अथायमुपकम्यते दक्षिणामूर्तिसंहितानामा श्रीविद्यातन्त्रग्रन्थो मुद्रयित्वा प्रकाशयितुम् । गन्थश्वायमोश्वरदेवीसंवादात्मक इति श्रोदक्षिणामूर्तिरूप ईश्वर एवास्थ प्रणेता, तत्सम्प्रदायानुयायिभिः स्वगुरुपरम्पराप्राप्ततत्त्वसङ्ग्रहात्मना ग्रथित इति च प्रतिभाति । यद्यपि श्रीपरशुरामकल्पसूत्र, नित्योत्सव, योगिनीहृदय, सेतुबन्ध, तन्त्रराज, वरिवस्थाहृदयादयः श्रीविद्यातन्त्रग्रन्था मुद्रिताः प्रका- शितचराश्चोपलभ्यन्ते, तथापि दक्षिणामूर्तिसंहितायास्तेभ्यः किमपि परमं वैशिष्टयं जागर्त्येव । प्राचीनेषु श्रीविद्यातन्त्रनिबन्धेषु दक्षिणामूर्तिसंहिताया बहुत्र नाममाहं समुल्लेखादस्याः प्राचीनत्वं प्रामाणिकत्वं च स्फुटमेव । पञ्चपञ्चिकास्थदेवतासु बहूनां मन्त्रोद्वारपूजाविधानादिनिरूपणम् पञ्चसिंहासनविद्यामन्त्रोद्धारपूजाविध्यादिनिरूपणम् , घटार्ग- लयन्त्रसाधननिरूपणम्, पञ्चमीशकटयन्त्रोद्धार प्रयोगसाधनादिवि- धिनिरूपणम्, आम्नायविवरणम् , षोडशनित्यामन्त्रपूजाप्रयोगादि- प्रतिपादनम्, महादेव्या होमबलिपूजाविशेषविधिनिरूपणं चेत्याद- योऽन्यत्र दुर्लभा विषया इह सम्यक् प्रपञ्चिता इति ग्रन्थस्यास्योपादे- यता स्पष्टीभवति । पृथङमुद्रिते सूचीपत्रे ग्रन्थीयविषयाः साफल्येन प्रदर्शिता इति विशेषजिज्ञासुभिस्ते तत एवावगन्तव्याः । एतद्ग्रन्थप्रतिपादितोपासनप्रकारा श्रीविद्याऽपराख्या श्रीषोडशी