पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः। अथ द्वात्रिंशः पटलः। ईश्वर उवाच-- अथातः सम्प्रवक्ष्यामि मातङ्गीरत्नदेवताम् । वाग्भवं कामबीजं च सर्गवान्भृगुरुत्तमे ॥१॥ अनुग्रहेण संयुक्तः पुनराद्यं परां लिखेत् । श्रीबीजं तारकं चैव नमो भगवतीति च ॥ २ ॥ मातङ्गेश्वरि सर्वान्ते मनोहरि जनादिकम् । सर्वराजवशं चान्ते करि सर्वमुखन्ततः ॥ ३ ॥ रञ्जनीति ततः सर्वस्त्रीशब्दं च ततो लि1खेत् । पुरुषान्ते वशञ्चोक्त्वा कर्यन्ते सर्वदुष्टतः ॥ ४ ॥ मृगान्ते वशमालिख्य सर्वलोक2पदं लिखेत् । कर्य्यादि व3शमालिख्य करिशब्दं ततो वदेत् ॥५॥ परां श्रियं काम4बीजं वाग्भवं नवमालिखेत् । सप्ततिश्च त्रयो वर्णा मातङ्गीविग्रहाः प्रिये ॥ ६ ॥ इयं समग्रविद्यानां राज्ञी मोक्षार्थसिद्धिदा । ऋषिर्मतङ्गो भगवान् गायत्रं छन्द 5उच्यते ॥ ७ ॥ देवता नादमूर्तिस्तु मातङ्गी परमेश्वरी । (१) 'वदेत्' इति पाठान्तरम् । (२) 'करिसर्वस्तु लोककम्' इति पाठान्तरम् । (३) वशङ्करि समुच्चार्य पराश्रीकामवाग्भवम् इति पाठान्तरम् । (४) इदमर्द्धं 'ख' पुस्तके नास्ति । (५) सप्तमः श्लोकः "ख" "पुस्तके नास्ति ।