पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूतिसंहिता। कामबीजं वाग्भवं च बीजशक्ती च कीलकम् ॥८॥ अम्भोजार्पितदक्षाङ्घ्रिं श्यामां ध्यायेन्मतङ्गिनीम् । कराद्वीणालसन्नादश्लाघान्दोलितकुण्डलाम् ॥ ९ ॥ दन्तपत्रप्रभां रम्यां सर्वसर्वाङ्गसुन्दरीम् । कादम्बमुण्डमालाढ्यां वीणावादनतत्पराम् ॥ १० ॥ श्यामाङ्गीं शङ्खवलयां ध्यायेत्सर्वार्थसिद्धये । अथ यन्त्रं प्रवक्ष्यामि त्रिकोणं पञ्चकोणकम् ॥११॥ वसुपत्रं कलापत्रं वसुपत्रं चतुर्दलम् । चतुरस्रं चतुरिमेवं मण्डलमालिखेत् ॥ १२ ॥ आवाह्य देवतां सम्यगुपचारैः सम1र्च्य तु । अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनम् ॥ १३ ॥ अथ वक्ष्ये महेशानि चतुर्द्वारस्य पूजनम् । अग्निद्वारश्चतुर्दिक्षु प्रादक्षिण्येन पूजयेत् ॥ १४ ॥ सरस्वतीं च लक्ष्मीं च शतपद्मनिधी प्रिये । विदिक्षु वामभागादिप्रादक्षिण्येन पूर्वव2त् ॥ १५ ॥ बटुकं गणराजं च क्षेत्रपालं च योगिनीम् । यजेच्चतुर्दले देवि सिद्धमातङ्गिनीं क्रमात् ॥ १४ ॥ महालक्ष्मीमिमां सिद्धलक्ष्मीमातङ्गिनीं यजेत् । महामातङ्गिनीदेवीं प्रादक्षिण्येन पूजयेत् ॥ १७ ॥ (१) 'समर्चयेत्' इति पाठान्तरम् । (२) 'पूजयेत्' इति पाठान्तरम् ।