पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । ५९ अष्टपत्रे महेशानि असिताङ्गादिभैरवाः । असितो रुरुचण्डौच क्रोध उन्मत्तभैरवः ॥ १८ ॥ कपाली भैरवश्चैव संहारश्चाष्टभैरवान् । प्रादक्षिण्येन देवेशि पुर आरभ्य पूजयेत् ॥ १९ ॥ वामा ज्येष्ठा च रौद्री च शान्तिः श्रद्धा च पञ्चमी । वागीश्वरी क्रियाशक्तिलक्ष्मी र्वृद्धिस्तथैव च ॥ २० ॥ मोहिनी प्रथमा ज्ञेया विद्या वै बिन्दुमालिनी । सुरानन्दा नागधुंधी(?)रेताः षोडश कीर्तिताः ॥ २१॥ पुर आरभ्य देवेशी प्रादक्षिण्येन पूजयेत् । षोडशारे ततो देवी र्लक्ष्मीश्चैव सरस्वती ॥ २२ ॥ रतिः प्रीतिः कीर्तिशान्ती पुष्टिस्तुष्टिश्च पूर्ववत् । पत्रान्तरेषु देवेशी मातृणां चाष्टकं यजेत् ॥ २३ ॥ पूर्ववद्यन्त्रपत्रेषु द्राविणीं शोषिणीं तथा । स्तम्भिनीं मोहिनीं देवीं तथाकर्षणकारिणीम् ॥ २४ ॥ त्रिकोणेऽपि हि देवेशि यजेदग्रादिपूर्ववत् । प्रादक्षिण्येन मनुविद्रतिप्रीतिमनोभवान् ॥ २५ ।। पुनः सम्पूज्य देवेशी सर्वा अप्सु स्मरेप्रिये । पुरश्चरणकाले तु क्षेत्रपालमुदाहृतम् ॥ २६ ॥ प्रवालमालया देवि तदशांशेन होमयेत् । मधुकदम्वकैर्मन्त्री त्रिकोणे कुण्डके शुचिः ॥ २७ ॥