पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। एवं संसिद्धमन्त्रस्तु शर्वाणि सर्वसाधकः । राज्यार्थी मल्लिकाजातीपुन्नागैः श्रीफलच्छदैः ॥२८॥ श्रीकामुकः शुभ्रपद्मैः पङ्कजैर्वापि सुव्रते । उत्पलैभोंगकामस्तु लक्ष्मीपुष्पैश्च सुव्रते ॥ २९ ॥ जवावन्धूकबकुलकिंशुकैवश्यकारिणी । वश्याथीं मधुसंयुक्तैर्मधूककुसुमैहुँनेत् ॥ ३० ॥ आकर्षणे तु लवणैस्तिलैस्त्रिमधुसंयुतैः । बञ्जुलार्वृष्टिकामस्तु खर्जूरैश्चागुरुद्रुमैः ॥ ३१ ॥ आयुःकामस्तु दूर्वाभिर्धनार्थी हेम1पुष्पकैः । वश्ये कदम्बकुसुमैर्धान्यार्थी धान्यतण्डुलैः ॥ ३२ ॥ साज्यानैरन्नकामस्तु वश्ये कुङ्कुमचन्दनैः । गन्धद्रव्यैस्तु सौभाग्ये नन्द्या2वर्त्तैस्तु स प्रिये ॥३३॥ करि3पुष्पैः सम्पदर्थी पालाशैस्तेजसे हुनेत् । कापिलेन घृतेनाथ ते श्वासकासहरं भवेत् ॥ ३४ ॥ उन्मादनकरो होम उन्मत्तकुसुमैर्भवेत् । विषवृक्षैश्च निम्बैश्च श्लेष्मातकविभीतकैः ॥ ३५ ॥ उलूकगृध्रकाकैश्च निम्बतैलपरिप्लुतैः। होमयेद्रिपुनाशाय वरास्त्रे वह्निकुण्डके ॥ ३६ ॥ पश्वाशाभिमुखो भूत्वा नग्नो दृष्टिमलीम4सः । (१) चम्पकपुष्परित्यर्थः । (२) तगरपुष्पैरित्यर्थः। (३)नागचम्पकैरित्यर्थः। (४) कोधाकान्तद्दष्टिरित्यर्थः ।