पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । उच्चाटने वायुभागे विद्वेषे राक्षसे भवेत् ॥ ३७ ॥ इन्द्राग्नेयविभागे वै शान्तिके प्राङ्मुखो भवेत् । पश्चिमे स्तम्भ2ने चोत्तरस्यां दिशि तु दैशिकः ॥३८॥ साधयेत्सर्वक3र्माणि पौष्टिकादीनि साधकः । पायसैर्गुडखण्डैश्च वंशजेक्षुरसैरपि ॥ ३९ ॥ पित्तशांतिकरो होमः सूर्य केवलमेव च । उन्मादने यत्प्रोक्तं पायसं घृतसंयुतम् ॥ ४० ॥ मरीचतिलतैलाक्तं कासश्वासहरम्भवेत् । निर्गुण्डीपुष्पहोमेन वातदोषं विनाशयेत् ॥ ४१ ॥ शृणुष्वाकर्षणं शीघ्रमाहुतित्रितयं कुरु । जीवन्यासं ततः कृत्वा मुक्ता(४)चक्रिगृहेथवा ॥४२॥ मधूच्छिष्टेन चान्यापि लवणेनापि पूत्रिकाः । कृत्वा तन्नामसकङ्कल्पमृदुकां कुंडले न्यसेत् ॥ ४३ ॥ सप्तांगुलमधःपश्चात् भारतीमेखलागतम् । लम्बयेदूर्ध्वतः पश्चात् त्रयस्त्रे माक्षिकसम्भवम् ॥४४॥ लवणं पेष्य मधुना लावण्या होमयेत्सुधीः । आरभ्य दक्षिणं पादं वामपादावधि प्रिये ॥४५॥ मनुजानामयं होमः स्त्रीणां चैव विपर्ययः । (१) पश्चिमेस्तम्भनञ्चैव चोत्तरेसर्वकार्यकृत्' इति पाठान्तरम् । (२) 'कार्याणि इति पाठान्तम् । (३) मुक्त्वा चक्कक्रमंतथा' इति पाठान्तरम् ।