पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्ति संहिता सप्तरात्रान्महादेवि शुभ्यन्ति विरहातुराः ॥ ४६ ॥ पतन्ति साधकस्याग्रे भयलज्जाविवर्जिताः । लवणानि च तैलेन होमयेच्छत्रुनाशनम् ॥ ४७॥ हरिद्राचूर्णसंयुक्तं लवणं स्तम्भने हुनेत् । पूर्णायां पूर्वरात्रौ च शुभार्थं च यजेद् वुधः ॥ ४८ ॥ मध्याह्ने मध्यरात्रे च कुर्य्यादुच्चाटनादिकम् । मातङ्गीविग्रहो भूत्वा सर्वकर्माणि साधयेत् ॥ ४९ ॥ आवेशनं ततः कुर्य्यात्कन्यानामशनं सुधीः । कन्यापूजा च कर्तव्या योगिनीनां विशेषतः ॥ ५० ॥ अष्टाष्टकं समभ्यर्च्य मातङ्गीतृप्तिकृत्सुधीः । वलिं निवेदयेत्पश्चान्मातंग्यास्तु वरानने ॥ ५१ ।। देवि शक्त्या नमस्यन्ति भगवत्यपि संलिखेत् । मातङ्गी च ततो बृयाच्चाडालि पदमालिखेत् ॥ ५२ ॥ ततः सर्वजनं चोक्त्वा मे वशं च समालिखेत् । आनयेति च संयुक्तं द्विठान्तो मनुरुच्यते ॥ ५३ ।। अनेन वलिदानं स्यान्मातङ्ग्याः सिद्धिदो भवेत् । वटुकादिवलिं तत्र सम्यगुत्क्षिप्य मातृका ॥ ५४ ॥ साधयेत्सर्वकर्माणि मातंग्याः सुप्रसादतः । इति श्रीदक्षिणामूर्तिसंहितायां मातंगेश्वरीरत्नविद्या- विधिद्वात्रिंशः पटलः ॥ ३२ ॥