पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयत्रिंशः पटलः। अथ त्रयस्त्रिंशः पटलः । ईश्वर उवाच- शृणु देवि प्रवक्ष्यामि भुवनानन्दमन्दिरम् । यस्या विज्ञानमात्रेण पलायन्ते महापदः ॥ १ ॥ शिवं वह्निसमारूढ़ं वामाक्षिपरिभूषितम् । बिन्दुनादकलाक्रातं विज्ञेयं भुवनेश्वरी ॥ २॥ ऋषिः शक्तिर्वशिष्ठः स्याद्वायत्रं छन्द उच्यते । देवता चित्कलारूपा भुवनेशी परात्मिका ॥ ३ ॥ शिवतुर्य्ये वीजशक्ती कलिकं रेफ उच्यते । ददाति भुवनेशानी पुरुषार्थचतुष्टयम् ॥ ४ ॥ अनन्तवामनेत्राभ्यां विद्यां सम्मेद्य मन्त्रवित् । षडङ्गानि च विन्यस्य हृल्लेखादि सकृन्न्यसेत् ॥५॥ अकाराद्यक्षपर्यन्तं विपरीतक्रमेण च । मातृकां संहरन् तत्र हृद्दोर्वक्षोविलोमतः ॥ ६ ॥ गुरूपदेशविधिना विलोमस्वरमार्गतः । संहारमातृकान्यासाद्ब्रह्मानन्दरसोज्वलः ॥ ७ ॥ एवं भूत्वा ततो मन्त्री षडङ्गैरङ्गुलीर्न्यसेत् । पुनरङ्गानि विन्यस्य चिदानन्देन तेजसा ॥ ८ ॥ कण्ठहृद्गुह्यपादेषु न्यसेत्पञ्चपदेश्वरः । ह्रल्लेखां गगनां रक्तां चतुर्थी च करालिकाम् ॥ ९॥