पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ दक्षिणामूर्तिसंहिताः। महोष्मां च प्रविन्यस्य चिदानन्देन तेजसा । गायत्रीं चैव सावित्रीं तृतीयां च 1सरस्वतीम् ॥ १० ॥ कण्ठे वामस्तने दक्षस्तने चैव त्रयं ततः । ब्रह्मविष्णुशिवाख्यं च बामांसे हृदये तथा ॥ ११ ॥ दक्षांसे च ततो न्यासो मातॄणां विन्यसेत्प्रिये । ललाटांशे वामभागे पार्श्वे कुक्षौ च दक्षिणे ॥ १२ ॥ ककुदौ पार्श्वकेशान्ते मूलेन व्यापकं न्यसेत् । पाशाङ्कुशवराभीतिमुद्रासन्नद्धविग्रहः ॥ १३ ॥ कुङ्कुमादिभिरभ्यर्च्य ते2द्रवैर्विलेखेत् पठेत् । सुवर्णरौप्यताम्रादिराचरेद्देशिकोत्तमः ॥ १४ ॥ इन्द्रराक्षसवायव्यरेखाभिर्वह्निमण्डलम् । तन्मध्ये साध्यनामाङ्कशक्तिं संलिख्य नामकम् ॥१५॥ ठकारैर्वेष्टितं कृत्वा कोणाग्रेषु परां लिखेत् । स्थानत्रयेपि बन्धस्तु कथ्यते सिद्धिदायकः ॥ १६ ॥ तद्बीजत्रयरेखाग्रप्रादक्षिण्येन वेष्टयत् । ईषत्तु त्रितयं चास्य मग्रे व्यञ्जन मीरयेत् ॥ १७ ॥ अन्योन्यकरमारभ्य शक्तिबन्ध उदाहृतः । त्रिकोणाभ्यन्तरालेषु वामनेत्रं सबिन्दुकम् ॥ १८ ॥ (१) यासरस्वत्यरुन्धती' इति पाठान्तरम् । (२) 'तण्डुलैरिति पाठान्तरम् । (३) ग्रेव्यञ्जनयोजयेत् ।