पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

'द्वात्रिंशः पटलः। प्रत्येकं कोणपार्थेषु ह1र्यणं च हराक्षरम् । पुनरेतद् द्वयं मध्ये तुर्य्यं च सवि2सर्गकम् ॥ १९ ॥ इत्येतैर्वेष्टयेद्वाह्ये वृत्तं कृत्वा हरिस्तदा । पद्मं विरच्य वस्वस्रं केसरस्थानके पुनः ॥ २०॥ ह3र्यर्णं च हरान्तं च लिखेत्प्रतिदिनं4 सुधीः । तुर्यस्वरं हरिस्तुर्य हर इत्यपि संलिखेत् ॥ २१ ॥ द5लेषु च दलाग्रेषु वामनेत्रं च संलिखेत् । एतद्विगुणितं यन्त्रं हीरकस्वर्णराजितम् ॥ २२ ॥ कामदं मोक्षदं रम्यं सर्वैश्वयंप्रदर्शकम् । अस्मिन्सम्पूजयेत्पीठशक्तिं सर्वार्थसिद्धये ॥ २३ ॥ । जयां च विजयां चैव अजितामपराजिताम् ॥२४॥ नित्यां विलासिनीं दोग्ध्रीमघोरामघनात्6मिकाम् । अभ्यर्च्य परितः पीठं नवमीपीठमूलगाः ॥ २५ ॥ ध्यात्वा कुण्डलिनीरूपामुद्यद्भास्वत्समद्युतिम् ॥ २५॥ पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् । (१) 'हर्षणञ्च' इति पाठान्तरम् (२) 'तुर्यचाऽपि स बिन्दुकम्' इति पाठान्तरम् । (३) 'हर्षणश्च' इति पाठान्तरम् । (४) 'प्रतिदले सुधीः । इति पाठान्तरम् । ... (५) इदमद्धं 'ख' पुस्तके नास्ति । (६) सर्वमङ्गलाम् इति पाठान्तरम् ।