पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८

एतत् पृष्ठम् परिष्कृतम् अस्ति

महात्रिपुरसुन्दरी किल दशमहाविद्याऽन्यतमाऽपि शक्तिचक्रसम्राज्ञी परदेवता ब्रह्मविद्येत्याख्यायतेऽभियुक्तैः । 'सा हि श्रीरमृता सताम्' इत्यादिश्रुतिप्रमाणरप्यस्या अमृतकलात्मकत्वं ब्रह्मविद्यात्वं च वाढं स्पष्टं भवति । किञ्च इयमेवात्मशक्तिरिति त्रिपुरारहस्यादावसकृदुपर्णितम- स्ति । आत्मज्ञानस्य फलं, 'तरति शोकमात्मवित्' इति श्रुत्या शोको- त्तीर्णतारूपमेव कथ्यते । तदेव फलमेतदुपासकानामपि भवतीति श्रीदेव्युपनिषदि .....'य एनां वेद, स शोकं तरति, स शोकं तरतिः इति द्विरुक्त्या स्पष्ट प्रतिपादितम् । 'आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुतिप्रतिपादितदिशा श्रवणमनननिदिध्यासनादिभिरात्मसाक्षात्कारं कामयमानानां कदाचिच्छवणादिवैकल्ये सत्यात्मदर्शनं न स्यात् शोकोत्तीर्णता च न सम्भवेत् । न चैकस्मिन् जन्मनि सर्वेषां श्रवणमननादीनि साकल्येन सम्पा- धात्मसाक्षात्कारः सुशकः । इत्थं च बहुजन्मबसायासपरम्परासा- ध्योऽयं श्रवणादिद्वारक आत्मसाक्षात्कारमार्गः । साक्षादात्मोपासना- मार्गमेवंविधसङ्कटसमाकुलं दृष्ट्वैव दयामयी भगवती श्रुतिरात्मश- क्तयुपासनामार्ग पूर्वापेक्षया सुकरं निर्दिशन्ती, तेन च पथा शोको- तीर्णतालाभस्य निश्चिततां ध्वनयितुमेव 'स शोकं तरति' इति द्विवा- रमुच्चैरुदघोषयत् । शक्तिशक्तिमतोरविनाभावेनात्मशक्त्युपासका- नामात्मलाभः सुशक एव । आत्मलाभात्परं किमपि लब्धव्यं नावशि- ष्यते। तथा चोक्त बाहुजकुलदावानलैः परमशिवान्तेवासिभिरारा- धितश्रीचरणैः श्रीपरशुरामभट्टारकश्रीपादैः स्वीये कल्पसूत्रे-'आत्म- लाभान्न परं विद्यते इति । एतावता मारमशक्तिस्वरूपायाः श्रीविद्याया उपासमया शोकोत्ती. र्णतात्मकमुक्तिरूपं फलं सुलभं भवतीत्यत्र भगवती श्रुतिरेष मुख्यं