पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः। दलेषु मातरः पूज्या लोकपालार्चनं ततः । इति श्रीदक्षिणामूर्तिसंहितायां भुवनेश्वरीत्रिगुणित- साधनविधिस्त्रयस्त्रिंशः पटलः ॥ ३३ ॥ अथ चतुर्स्त्रिंशःपटलः । ईश्वर उवाच । अथातः सम्प्रवक्ष्यामि यन्त्रं षड्गुणितं प्रिये । यस्य विज्ञानमात्रेण सर्वसिद्धीश्वरो भवेत् ॥ १॥ पुटितं वह्निमालिख्य मध्ये शक्तिं नियोजयेत् । तच्छक्तिरेफभागे तु साध्यनामाक्षरं लिखेत् ॥ २॥ ठकारवेष्टितं कृत्वा बहिःशक्तिं तु पञ्चधा । विलिख्य तद्बहिस्तद्वच्छीबीजं कामबीजकम् ॥ ३ ॥ पतिशः पञ्चधा लेख्यं ततः षट्कोणसाधनम् । षट्कोणकोणकोणेषु वामनेत्रं सबिन्दुकम् ॥ ४ ॥ षट्कोणसन्धिषु पुनः शक्तिबीजं समालिखेत् । पूर्ववच्छक्तिबन्धस्तु कार्यःसंस्पर्शबर्जितः ॥ ५ ॥