पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता । उर्ध्वकोणत्रयस्यान्तरालेषु विलिखेत्सुधीः । साधकस्य सबिन्दूनि नामार्णानि ततः परम्॥ ६ शक्तिश्रीकामबीजानि लिखेत्तत्रैव देशिकः । अधःकोणत्रयस्याथ त्वन्तरालेषु मन्त्रवित् ॥ ७ ॥ साध्याक्षराणि शक्तिश्रीकामबीजानि च क्रमात् । सविसर्गाणि संलिख्य विदर्भ्य गुरुसेवकः ॥ ८॥ कोणपार्थेषु सर्वत्र हरिवर्णौ हराक्षरौ । विलिख्य च ततो बाह्ये वृत्तं पूर्णेन्दुवत् कुरु ॥ ९ ॥ अनुलोमेन तद्वृत्तमध्ये पञ्चादशाक्षराः । तद्वृत्तबाह्यतस्तद्वद्विलोमेन च मातृका ॥ १० ॥ विज्ञेया वेष्टने देवि ततो भूयुगुलं लिखेत् । सम्पुटत्वेन देवेशि वसुकोणं तदा भवेत् ॥ ११ ॥ .. महादिक्षु नृसिंहस्य बीजमन्त्रं समालिखेत् । . क्ष्रौमात्मकं नृसिंहस्य बीजं जानीहि पार्वति ॥ १२ ॥ रक्षोऽग्निपवनाधीशमनुस्वरविभूषितम् । बिन्दुनादकलाक्रान्तमयं चिन्तामणिः प्रिये ॥ १३ ॥ कोणेषु विलिखेन्मत्री ततः षट्कोणसन्धिषु । विलिख्य शूलान्प्रणवैस्ततः पद्मं समालिखेत् ॥१४॥ दलै द्वार्दशभीरम्यं बाह्यं1 तु परिजृम्भितम् । (१)'राश्वर्ण परिद्वम्मितम्' रति पाठान्तरम् ।