पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । एतत्वगुणितं यन्त्रं सर्वैश्वर्यप्रवर्तकम् ॥ १५ ॥ तत्र बीजं समभ्यर्च्य समावाह्य च पूर्ववत् । उपचारैर्गन्धपुष्पैर्धूपदीपमनोहरैः ॥ १६ ॥ आवाहनादिमुद्राश्च दर्शयित्वार्चनं 1यजेत् । षट्कोणाग्नीशनैऋत्यवायुमध्येषु दिक्षु च ॥ १७ ॥ षडङ्गावरणं कुर्याद्वितीयावरणं ततः। ब्रह्मणा सह गायत्रीं सावित्रीं विष्णुना सह ॥ १८ ॥ सरस्वती शिवेनैव श्रीस्तथा धनदेन च । मदनेन रतिं पुष्टिं कुश2लेन समर्चयेत् ॥ १९ ॥ षट्कोणपूर्वकोणादिप्रादक्षिण्येन पूजयेत् । रक्ताऽनङ्गादिकुसुमा तृतीया कुसुमातुरा ॥ २० ॥ नित्याऽऽनन्दादिमदना षष्ठी तु मदनातुरा । गौरी च गगना चैव तथा गगनवेगिनी ॥२१॥. पद्माऽऽमयप्रमथिनी तथा च शशिशेखरा । अथ द्वादशपत्रेषु पूर्वादि3क्रमतो यजेत् ॥ २२ ॥.... चतुर्दलानि सन्त्यज्य दिक्षु ब्राह्मयादिकं यजेत् । भूगृहे लोकपालाः स्युरेतत्षड्गुणितं भवेत् ॥ २३ ॥ वामादिसिद्धयः सर्वा जायन्ते साधकस्य तु । (१)'चरेत्' इति पाठान्तरम् । (२) 'गणयेम' इतिपाठान्तरम् । (३) 'पार्वति' इति पाठान्तरम् ।