पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता । पुनाराराध्य नैवेद्यपुष्पैराराधनैः पराम् ॥ २४ ॥ इति श्रीदक्षिणामूर्तिसंहितायां भुवनेश्वरीषड्गुणि- तयन्त्रसाधनचतुर्विंशःपटलः ॥ ३४ ॥ अथ पञ्चत्रिंशःपटलः। ईश्वर उवाच । अथ त्रिगुणितं वक्ष्ये यन्त्रं सर्वोत्तमोत्तमम् । यस्य विज्ञानमात्रेण भुवनाधीश्वरो भवेत् ॥१॥ षट्कोणं पूर्वमुद्धृत्य पश्चात्तत्सन्धिभेदनः। षट्कोणान्तरमुत्पाद्य भवेद् द्वादशकोणकम् ॥ २ ॥ तन्मध्ये शक्तिमालिख्य पूर्वोक्तेन विधानतः । ठकारमध्ये तद्बाह्ये वेष्टयेत्प्रतिलोमतः ॥ ३ ॥ सम्यग् व्याहृतिभिमंत्री ततः षट्कोणसिद्धिषु । विलिख्य मुवनेशानीं द्वादशस्थानजृम्भिताम् ॥ ४ ॥ पूर्ववच्छक्तिबन्धं तु कुर्याद् द्वादशधा प्रिये । एकैकान्तरितं कुर्यान्मनोक्ज्ञं मण्डलं शुभम् ॥ ५ ॥