पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयत्रिंशः पटलः । हुमात्मकं द्वादशारे सबिन्दुतूर्यमालिखेत् । तददूर्ध्वं रविकोणेषु सर्वकामार्थासद्धये ॥६॥ अथ द्वादशकोणस्य सन्धिबीजान्तरालतः । शूलानि विलिखेन्मंत्री ततः कोणकपोलयोः ॥ ७॥ एकैकस्य च कोणस्य गायत्रीं च समालिखेत् । तस्पदं सवितुर्वान्ते णियं रे व्युत्क्रमाल्लिखेत् ॥ ८॥ भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । एतदष्टाक्षरं देवि गुह्यान्ते परिकीर्तितम् ॥ ९॥ चतुर्विशत्यक्षरेण गायत्री वेदमातृका । द्वन्द्वषोविलिखेद्वर्णान्गायत्र्याश्च विलोमतः ॥ १०॥ तद्वहिः कोणपार्श्वे तु विलोमाग्नेयसन्मनुम् । प्रणवं भूर्भुवःस्वाग्रे लिखेदेतत् षडक्षरम् ॥ ११ ॥ जातवेद इहालिख्य वह सर्वचतुष्टयम् । कर्माणि साधय स्वाहा विद्याग्नेयस्य दुर्लभा ॥१२॥ लिखेत्ततः पं देवि सर्वकार्यात्म1सिद्धये । अनुलोमविलोमां च मातृकां वेष्टयेत्ततः ॥ १३ ॥ भूपुरं पूर्ववद्बीजमण्डितं संलि2खेत्ततः । तद्बहिस्तु कलापत्रं द्वात्रिंशत्केसरान्वितम् ॥ १४ ॥ (१) 'कार्यादि' इति पाठान्तरम् । (२) मण्डलं लिखेत' इति पाठान्तरम् ।