पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूतिसंहिता। महार्कगुंफि1तं देवि निगमागममन्दिरम् । पूर्ववत्पीठमभ्यर्च्य देवीमावाह्य पूर्ववत् ॥ १५ ॥ परिवारार्चनं कुर्य्यादादावङ्गार्चनं प्रिये । ह्रल्लेखापञ्चकं वर्गसहितं पूर्ववद्यजेत् ॥ १६ ॥ ब्रह्मादियुगषट्कं तु पृथक् द्वादशधा यजेत् । कोणेषु पूर्वकोणादिकलास्त्राणि ततो यजेत् ।। १७ ।। कराली विकराली च तथोमा च सरस्वती । दुर्गा शची सुधा लक्ष्मीः श्रुति स्मृतिधृतित्रयम् ॥१८॥ श्रद्धा मेधा धृतिः कांति गौर्य्यः षोडश कीर्तिताः । पूर्वादिक्रमतः पूज्या दलाग्रेषु च सन्धिषु ॥ १९ ॥ श्रीह्रीः पुष्टिः प्रजा2 चैव सिनीवाली कूहू स्तथा । रुद्रा वीर्य्या प्रमानन्दा पोषणी ऋद्धिदा तथा ॥ २ ॥ कालरात्रिर्महारात्रि भद्रकाली कपालिनी। विकृतिर्नन्दिनी चैव मुण्डिनी च ततः परम् ॥ २१॥ इंदुखण्डासिखण्डिन्यौ निशुंभमथनी तथा । मर्दनी महिषस्यापि तथेन्द्राणी ततः परम् ॥ २२ ॥ रुद्राणी शङ्करार्धां च शरीरिण्यपि कीर्तिताः । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥ २३ ॥ (१)'गुणितं' इति पाठान्तरम् । (२) 'स्तु' इति पाठान्तरम् । (1)'प्रज्ञा' इति पाठान्सरम् ।