पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूतिसंहिता। अनङ्गकुसुमा चैव विश्वरूपा भयङ्करी ॥ ३१ ॥ तथा क्षोभ्या महाक्षोभ्यां1 तथा वै सत्यवादिनी । रसरूप2तरा ऽन्या वै वसुचित्ता परेश्वरी ॥ ३२ ॥ वरदा चैव वागीशी एताः शक्तीस्तु पूजयेत् । प्रादाक्षिण्यद्वय3नैव सर्वकामार्थसिद्ध4ये ॥ ३३ ॥ चतुःषष्टिमहाशक्तिपूजनं कथितं तव । तद्वहिर्लोकपालांश्च भूबिम्बे पूजयेत्प्रिये ॥ ३४ ॥ पुनर्देवीं समभ्यर्च्य नैवेद्यादि समर्पयेत् । इति संकथितं सम्यग् देवानामपि दुर्लभम् ॥ ३५ ॥ इति श्रीदक्षिणामूर्तिसंहितायां भुवनेश्वरीद्वादशगु- णितोद्धारः पञ्चत्रिंशः पटलः ॥ ३५ ॥ अथ षट्त्रिंशः पटलः। ईश्वर उवाच-- मुखवृत्तं बिन्दुनादकलाढ्यं पाश उच्यते । (१)'असुराणां तथाक्षोभ्या' इनिपा० । (२) 'बहुरूपावाच्यचैव सुवृत्तापरमेश्वरी । इतिपा० । (३) 'क्रमेणैव इतिपा०। (५)"सिद्धिदा' इतिपा० ।