पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

पत्रिंशः पटलः । कामाग्नितार1सहितमङ्कुशं विद्धि पार्वति ॥ १ ॥ एतन्मध्यगता विद्या यदा पूज्या सुरेश्वरी। अप2रा वाऽथ पञ्चार्णा ताभ्यां सम्पुटिता प्रिये ॥२॥ तदा घटार्गलोद्धारः कथितो3 भुवि दुर्लभः । येनानुष्ठितमात्रेण त्रैलोक्याकर्षणं भवेत् ॥ ३॥ संप्रदायेन देवेशि श्रीगुरोः कृपया प्रिये 4। सम्यक् सूत्रेण रचयेत्सुवृत्तं वृत्तमुत्तमम् ॥ ४ ॥ ततो भूबिम्बयुगलं संपुटीकृत्य योजयेत् । अष्टकोणं तथा देवि जायतेऽति5मनोहरम् ॥ ५॥ अष्टदिक्षु तदाग्रा6ऽभ्यां रेखामाकृष्य मांत्रिकः । रेखाभ्यामर्गलं देवि जायतेऽतीव सुन्दरम् ॥ ६ ॥ एकेनैव तु मानेन रचये7दर्गलान्तरम् । वृत्तं तदग्रे चन्द्रस्य बिम्बवद्रचयेद् बुधः ॥ ७ ॥ पुना रेखाः समाकृष्य पूर्ववद् वृत्तमुत्तमम् । विरच्य साधकेन्द्रस्तु वसुकोष्ठयुगं क्रमात् ॥ ८ ॥ व्यक्तं यथा भवेद्देवि केसराणां वसुद्वयम् । (१) 'पाश' इतिपा०। (२) 'अक्षरी' इतिपा। (३) 'कथ्यते' इतिपा०। (४) 'ऽन्विते' इतिपा०। (५) ' दिङ्मनोहरम्' इतिपा० । (६) 'तथाताम्यां रेखे आकृष्य इतिपा० । (७) रचयेदर्गलाष्टकम्' इतिपा० ।