पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता । एतदग्राणि रम्याणि यथा सम्यग्भवन्ति हि ॥ ९ ॥ तथा कार्य महेशानि त्रैलोक्याकर्षणं भवेत । शक्तिबीजं साध्यनाम साधकेन च साध2कः ॥ १० ॥ पाशांकुशमहाबीजयुगसंपुटितं यजे3त् । कर्णिकायां मध्यवृत्ते संलिखेत्साधकोत्तमः ॥ ११॥ अष्टपत्रेषु4 विलिखेत् षडङ्गानि यथाक्रमम् । अग्नीशासुरवायव्यकोणेषु मनु5रीरितः ॥ १२ ॥ कवचान्तानि संलिख्य मध्ये नेत्रे6 नयेद् बुधः । चतुर्दिशं तु कोणेषु चतुर्दास्त्रं लिखेत्प्रिये ॥ १३ ॥ वृत्तादि वसुकोणांतं लिखेद्7 द्वयदलेषु च । बीजवृन्दं महेशानि सम्प्रदायक्रमेण हि ॥ १४ ॥ शक्तिं वह्नि परित्यज्य तत्र भूभूषितं कुरु । तद्वीजं स्वरसभि8न्नं ऋऋलृलृविवर्जितम ॥ १५ ॥ एवं द्वादशधा तच्च चतुर्द्धा कुरु सुन्दरि । आद्यं त्रिकं पूर्वमुख्यं लिखेदुत्तरतः पुनः9 ॥ १६ ॥ (१) 'अर्गलानिच' इतिपा० । (२) 'साधितम्। इतिपा० । (३) लिखेत् इतिपा। (४) 'कोणेषु' इतिपा। (५) 'मुनिवित्तमः' इतिपा० । (६) 'नेत्रंलिखेद्ड्धः' इतिपा० । (७) 'लिखेद्वर्गदलेषुच' इतिपा० । (B) 'हीनं इतिपा। (8) 'प्रिये इतिपा।