पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति

षटत्रिशः पटलः । द्वितीयं पूर्वमुख्यं तु लिखेद्दक्षिणतः सुधीः । तृतीयं पश्चिमे भागे तथा दक्षिणतो लिखेत् ॥ १७ ॥ चतुर्थे त्वर्गलं तद्वत्पश्चिमेत्युत्तरान्तिकम् । भुवं हित्वाऽर्कबीजानां तत्र वायुं नियोजयेत् ॥ १८ ॥ अग्न्यर्गलाख्यां त्रितयमाद्यं पूर्वत आलिखेत् । तथा पश्चिमतो ऽप्यन्यत् त्रिकं संलिख्य मान्त्रिकः१९ मारुतार्गलकं तद्वल्लिखेत्पश्चिमतस्त्रि1कम् । पूर्वतोऽपि च देवेशि सर्वकार्यात्मसाधकः ॥ २० ॥ घं2टार्गलाय देवेशि कथयामि वरानने । वायुं हित्वार्कबी3जानां वरुणं तत्र निक्षिपेत् ॥ २१ ॥ बीजवृन्दं महेशानि सम्प्रदायक्रमेण हि । शक्तिं वह्निं परित्यज्य तत्र भूभूषिकं कुरु ॥ २२ ॥ तद्बीजं स्वरसम्भिन्नं ऋऋलृलृविवर्जितम् । एवं द्वादशधा तच्च चतुर्धा कुरु सुन्दरि ॥ २३ ॥ आद्य त्रिकं पूर्वमुख्यं लिखेच्च पुरतः पुनः । द्वितीयं पूर्वमुख्यं तु लिखेद्दक्षिणतः सुधीः ॥ २४ ॥ तृतीयं दक्षिणे भागे तथा दक्षिणतो लिखेत् । चतुर्थेन कुले तद्वत्पश्चिमादुत्तमान्तकम् ॥ २५ ॥ (१) 'पश्चिमतः प्रिये' इतिपा। (२) 'यमार्गलाय' इतिपा। (३) 'बीजानि इतिपा०।