पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहितो। भुवं हित्वा तथा तत्र वायुबीजं नियोजयेत् । अग्नीशानार्यत्रितयमाद्यं पूर्ववदालिखेत् ॥ २६ ॥ पू1र्वतश्चापि त्रितयं द्वितीयं पश्चिमागतम् । अथोत्तरार्गलायां च लिखेत्पश्चिमतः सुधीः॥ २७ ॥ चतुर्थात्पूर्वतो देवी स्फुरणात्सुरसुन्दरि । वीरं हित्वार्कवीजानां रेफं तत्र विनिक्षिपेत् ॥ २८ ॥ लिखेद्रक्षार्गलायां तु त्रिकमाद्यं त्रिकं परम् । दक्षिणोत्तरतो मन्त्री क्रमेणेशद2ले पुनः ॥ २९ ॥ आदावुत्तरतो देवि पश्चाइक्षिणमा3दितः । अन्तराष्टसु कोष्ठेषु केसराख्येषु संलिखेत् ॥ ३० ॥ पाशश्रीतुरगेशा4नी कामबीजचतुष्टयम् । विपरीतं च मन्त्रज्ञो वसुर्नारदमा5लिखेत् ॥ ३१ ॥ अन्त्यपाशं परित्यज्य सृणिं संयोज्य साधकः । तद्बहिर्वसुकोष्ठेषु विलिखेत्तत्क्रमेण च ॥ ३२ ॥ कामिन्यन्ते रञ्जिनी स्यात् ततोऽग्रे ऽप्यग्निवल्लभा । अष्टवर्णानुक्तरूपानपरान्केसरेषु च ॥ ३३ ॥ (१) वायुंहित्वा-इत्यारम्य 'पूर्वतश्चाऽपि' इतिपर्यन्तं 'ख' पुस्त. केनास्ति। (२) 'क्रमाच्छैवार्गलेपुनः' इतिपा० । (३) 'दक्षिणमार्गतः इतिपा। (४) 'भुवनेशानी इतिपा० । (५) 'वस्वर्णमिदमालिखेत्' इतिपा।