पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चत्रिंशः पढनः । तेनायं वर्तते लोको भूमिमण्ड1लसंस्थितः । चतुः2स्वरेण पाताले शेषरूपेण धार्यते ॥ ५१ ॥ महाभूमण्डलं तस्मात्पातालस्यापि नायिका । अत एव महेशानि भुवनाधीश्वरी प्रिये ॥ ५२ ॥ हकारे व्योमतुर्य्येण स्वरेणानिलसम्भवः । विकारे सति रेफेण साक्षाद्वह्निस्वरूपिणी ॥ ५३ ॥ 3बाह्निबीजं वसु ज्ञेयं तस्माद्रेकं च सुंदरि । अतएव महेशानि आव4योः समता भवेत् ॥ ५४ ॥ बिन्दुचन्द्रामृता देवी प्लावयन्ती जगत्त्रयम् । प्ल5वरूपा भवेत्तस्मात्सृजन्ती चार्द्धमात्रया ॥ ५५ ॥ अतएव महेशानि भुवनेशी च कथ्यते ॥ इति श्रीदक्षिणामूर्तिसंहितायां घटार्गलयन्त्रसाधनं षट्त्रिंशः पटलः ॥ ३६ ॥ (१) 'भूमण्डलसमस्थितिः' इति पा० । (२) 'तुर्यस्वरेण' इति पा० । (३) 'वन्हिवीर्यवसुज्ञेयं तस्माद्रेफवसुन्धरा' । इति पा० । (४) 'रत्नयोः इति पा०। (५)'द्रवरूपा' इति पा० ।