पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथ सप्तत्रिंशः पटलः। ईश्वर उवाच- पञ्चमीं रत्नदेवेशीं कथयामि शृणु प्रिये । यस्याः स्मरण1मात्रेण पवनोपि स्थिरो भवेत् ॥१॥ वाग्भवं बीजमुच्चार्य गलानुग्रहबिन्दु2भिः । नादेन भूषितं बीजं वाग्भ3वं चोच्चरेत्ततः ॥२॥ . 4पुनरन्त्यं ततो भान्ते गवतीति समालिखेत् । वार्तालियुग्मं वाराही पुनरेतद्वयं5 लिखेत् ॥ ३ ॥ वाराहमुखि सद्वन्द्वं सन्धिहीनं ततः परम् । अन्धे चान्धिनि सप्तार्णं हृदयान्ते भवेत्प्रिये ॥४ रुन्धे रुन्धिन्यतो हृच्च जम्भे जम्भिनि हत्तथा । मोहे मोहिनि हृच्चापि स्तम्भे स्तम्भिनि ह्रत्तथाः॥ ५॥ एतदुक्त्वा महेशानि सर्वदुष्टप्रदुष्टकान् । सानन्तानां च सर्वेषां सर्ववागितिचित्त च ॥ ६ ॥ चक्षुर्मुखगति चोक्त्वा जिह्वास्तम्भं कुरुद्वयम् । शीघ्रं वश्यं कुरुद्वन्द्वं वाग्भवं पार्थिवं पुनः ॥ ७ ॥ (१)'श्रवणमात्रेण' इति पा० । (२) 'बिन्दुयुक्' इति पा० । (३)'पार्थिव' इति पा० । (४) पुनराद्यं नमश्चान्ते भगवतीसमालिखेत् । इति पा० । (५)'त्रयं इति पा०।