पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति

षत्रिंशः पटलः । ८३ ठकारश्चतुरस्यान्ते कवचास्त्राग्निवल्लभा । विद्या1 दशोत्तरशतमन्त्रवर्णा भवेत्प्रिये ॥ ८ ॥ चतुश्चत्वारिंशतिभिः पदैर्न्यासस्तु कीर्तितः । मातृकां विन्यसेद्वके पदानि दश मन्त्रवित् ॥ ९॥ दोःपत्सन्धिषु साग्रेषु न्यसेर्द्विशतिसंख्यकान् । पदार्णान्यथ विन्यस्य पार्श्वयोर2ङ्कमुत्तमम् ॥ १० ॥ अनेनैव प्रकारेण मातृकां विन्यसेत्सुधीः । ततः षडङ्गविन्यासं कुर्य्यादेहस्य सिद्ध3ये ॥ ११ ॥ वार्ताल्यास्तु पदद्वन्द्वं हृदयं च ततः परम् । वाराहियुगलं देवि शिरोमन्त्र उदाहृतः ॥ १२ ॥ वाराहमुखियुग्मं तु शिखासप्ताक्षरं ततः । कवचं च ततः सप्तवर्णैर्नेत्रं न्यसेत्त्क्रमात् ॥ १३ ॥ यन्त्रोद्धारं प्रवक्ष्यामि येन त्रैलोक्यमोहनम् । ताम्रे वा राजते स्वर्णमये वा भूर्जपत्रके ॥ १४ ॥ लिखेद्रोचनया वापि कुङमागुरुचन्दनैः । हरिद्रया वारु4णया विलिखेच्च मनोहरम् ॥ १५ ॥ (१) चतुर्दशोत्तरशतं मन्त्रवर्णा भवन्ति हि । इति पा० । (२) 'पार्श्वयोरेकमुत्तमम्' इति पा० । (३) 'देहविशुद्धये' इति पा० । (५)'चतुणया' इति पा० ।