पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। त्रिकोणं पञ्चकोणं च षटकोणं वसुपत्रकम् । शतपत्रं सहस्रारं ततो भूबिम्बमालिखेत् ॥ १३ ॥ चतुर्द्वारविशोभाढ्यं मध्ये सिंहासनं यजेत् । वाणीभूबीजयुग्मेन संपूज्याः सर्वमातरः ॥ १७ ॥ स्फटिकाकारमध्यस्थं पीठमेतद्विचिन्तयेत् । देवीमावाहयेत्तत्र ध्यानं कुर्य्याद्विचक्षणः ॥ १८ ॥ प्रत्यग्रारुणसङ्काशां पद्मासनसुसंस्थिताम् । इन्द्रनीलमहातेजःप्रकाशां विश्वमातरम् ॥ १९ ॥ रुण्डं च मुण्डमालाढ्यां नवरत्नादिभूषिताम् । अनर्घ्यरत्नघटितमुकुटश्रीविराजिताम् ॥ २० ॥ कौशि2कार्द्धोरूकां चारुप्रवालमणिभूषिताम् । हलेन मुसलेनापि वरदेनाभयेन च ॥ २१ ॥ विराजितचतुर्बाहुं कपिलाक्षी सुमध्यमाम् । नितीम्बनीमुत्पलाभां कठोरघनसत्कुचाम् ॥ २२ ॥ लोलाननां यजेदेवीमुपचारैः सहेतुभिः । गन्धपुष्पादिभिः सम्यक् सर्वकामार्थसिद्धये ॥ २३ ॥ सप्तभि3श्च सहस्राणि पुरश्चरणसिद्धये । तदशांशेन वै होमस्तिलैर्बन्धूकपुष्पकैः ॥ २४ ॥ (१)'पद्मान्तर्गतस्थितिः' इति पा० । (२) 'केयूरार्द्धोरुकाम्' इति पा० । (३) 'दशसप्तसहस्राणि' इति पा०1