पृष्ठम्:दशरूपकम्.pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः। ७९ तृतीयः प्रकाशः । बहुवक्तव्यतया रसविचारातिलङ्घनेन वस्तुनेतृरसानां विभज्य नाटका- दिपयोगः प्रतिपाद्यने --- प्रकृतिवादथान्येषां भूयो रमपग्ग्रिहान् । संपूर्णलक्षणलाच पूर्व नाटकमुच्यते ॥ १॥ उद्दिष्टधर्मकं हि नाटकमनुद्दिष्टधर्माणां प्रकरणादीनां प्रकृतिः । शेष अतीतम् । तत्र- पूर्वरङ्गं विधायादौ मूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनटः ॥२॥ पूर्व रयतेऽस्मिन्निनि पूर्वरङ्गो नाट्यशाला । तत्स्थप्रथमप्रयोगव्युत्था- पनादौ पूर्वरङ्गता । तं विधाय विनिर्गते प्रथमं सूत्रधारे तद्वदेव वैष्णवस्था- नकादिना प्रविश्यान्यो नटः काव्यार्थ स्थापयेत् । स च काच्यार्थधापना. चनाम्यापकः । दिव्यमये स तद्पो मिश्रमन्यनरस्तयोः । मूचयेद्वस्तु बीजं वा मुखं पात्रमथापि वा ॥३॥ स स्थापको दिव्यं वस्तु दिव्यो भूत्वा मत्यं च मर्त्यरूपो भूत्वा मिधं च दिव्यमत्येयोरन्यतरो भूत्वा सूचयेत् । वस्तु बीनं मुग्वं पात्रं वा । यस्तु यथोदात्तराधवे- 'रामो मूर्ध्नि निधाय काननमगान्मालामिवाज्ञां गुरो- ___ सद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झिनम् । तो मुग्रीवविभीपणावनुगनी नीतौ परां संपदं प्रोद्त्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः ॥' बीजं यथा रनावल्याम्- 'द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झरिति घटयति विधिरभिमतमभिमुखीभूतः ।।' मुखं यथा-- 'आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः ।