पृष्ठम्:दशरूपकम्.pdf/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः प्रकाशः । सूत्रधारो नटी ब्रूते मार्ष वाथ विदूषकम् ॥ ७ ॥ स्वकार्य प्रस्तुताक्षेपि चित्रोक्त्या यत्तदासुखम् । प्रस्तावना वा तत्र स्युः कथोडातः प्रवृत्तकम् ॥ ८॥ प्रयोगातिशयथाथ वीथ्यङ्गानि त्रयोदश । तत्र कथोद्धातः- खेतिहत्तसमं वाक्यमर्थं वा यत्र मृत्रिणः ॥९॥ गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधैव सः। वाक्यं यथा रत्नावल्याम्----'योगधरायणः-द्वीपाइन्य मादपि -' इति । वाक्यार्थं यथा वेणीसंहारे----'भीमः- 'निर्वाणवैरिदहनाः प्रशमादरीणां नन्दन्तु पाण्डुननयाः सह केशवेन । रक्तप्रसाधितभुवः सतविग्रहाश्च स्वम्या भवन्तु कुरुराजमुताः सभृत्याः । ततोऽर्थनाह---'भीमः- लाक्षागृहानलविषानसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्यं । आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्ट्राः ।।' अथ प्रवृत्तकम् - कालसाम्यसमाक्षिप्तमवेशः स्यात्प्रवृत्तकम् ॥ १० ॥ प्रवृत्तकालसमानगुणवर्णनया सूचितपात्रप्रवेशः प्रवृत्तकम् । यथा--- 'आसादितप्रकटनिमलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः । उत्स्वाय गाढतमसं घनकालमुग्रं रामो दशास्यमित्र संभृतबन्धुनीवः ॥ (ततः प्रविशति अथानिर्दिष्टो रामः ।) ...- -..... ... १. 'वाक्यं वाक्यार्थमथवा प्रस्तुतं यत्र सूत्रिणः' इति पाठः,