पृष्ठम्:दशरूपकम्.pdf/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशरूपके अथ छलनम्- प्रियाभैरप्रियाक्यविलोभ्य छलनाच्छलम् । यथा वेणीसंहारे—'भीमार्जुनौ-- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेगुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः वास्ते दुर्योधनोऽसौ कथयत पुरुषा द्रष्टुमभ्यागतौ स्वः ॥' अथ वाक्कली-- विनिवृत्यास्य वाकेली द्वित्रिः प्रत्युक्तितोपि वा ।। १७ ।। अस्येति वाक्यस्य प्रक्रान्तस्य साकाङ्क्षस्य विनिवर्तनं वाकेली। द्वित्रिी उक्तिप्रत्युक्तयः । तत्राया यथोत्तर चरिते-'वासन्ती- लं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे। इत्यादिभिः नियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ॥ उक्तिप्रत्युक्तितो यथा रत्नावल्याम्–'विदुषकः---- भोदि मअगिए, मं पि एदं चच्चरिं सिक्खावेहि । मदनिका-हैदास, ण क्खु एसा चच्चरी। दुवदिखण्डअं नखु एदम् । विदृषक:-भोदि, कि एदिणा खण्डेण मोदआ करीअन्ति । मदनिका--णहि । पटीअदि क्खु एदम् । इत्यादि। अथाधिबलम्- अन्योन्यवाक्याधिक्योक्तिः स्पर्षयाधिबलं भवेत् । यथा वेणीसंहारे—'अर्जुन:-- सकलरिपुजयाशा यत्र बद्धा मुतस्ते __ तृणमिव परिभूतो यस्य गण लोकः । रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डुपुत्रः ॥' 1. 'छलना' इति पाद:. २. "भवनि मदनिके, मामप्येतां चर्चरी शिक्षय ।' दति च्छाया. ३. हताश, न खग्वेषा वर्चरी । द्विपदीखण्डक खल्वेतात । इनि छाया. ४. 'भवति, किमेतेन खण्डन मोदका: क्रियन्तं ।' इति छाया. ५ 'नहि । पठ्यते सल्वैतत् ।' इति च्छाया.